Sundarkanda | सुंदरकांड : Sarga 2

Sundarkanda in Hindi  | सुंदरकांड   हिंदी में | Sundarkanda full in Hindi Lyrics | Sundarkanda in Pdf | Ramayan 101 Chaupai  | Sundarakanda Slokas In Hindi | Sundarakanda Slokas In Telugu |


In this Page, you will find Sampoorna Sunderkan in Hindi.
Please let us know in the comments if you want Sunderkand in other Languages.

इस पेज में आपको संपूर्ण सुंदरकांड हिंदी में मिलेगा।
यदि आप अन्य भाषाओं में सुंदरकांड चाहते हैं तो कृपया हमें टिप्पणियों में बताएं।




SARGA 2


नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारद:।

पूजयामास धर्मात्मा सहशिष्यो महामुनि: ।।1.2.1।।



यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।

आपृष्ट्वैवाभ्यनुज्ञातस्स जगाम विहायसम् ।।1.2.2।।



स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा ।

जगाम तमसातीरं जाह्नव्यास्त्वविदूरत: ।।1.2.3।।



स तु तीरं समासाद्य तमसाया महामुनि: ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।।1.2.4।।



अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।।1.2.5।।




न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।।1.2.6।।




एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरो: ।।1.2.7।।





स शिष्यहस्तादादाय वल्कलं नियतेन्द्रिय: ।

विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ।।1.2.8।।





तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ।।1.2.9।।





तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चय: ।

जघान वैरनिलयो निषादस्तस्य पश्यत: ।।1.2.10।।





तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ।।1.2.11।।

वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ।।1.2.12।।





तदा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।।1.2.13।।





तत: करुणवेदित्वादधर्मोऽयमिति द्विज: ।

निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ।।1.2.14।।





मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समा: ।

यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम् ।।1.2.15।। 15





तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुने: किमिदं व्याहृतं मया ।।1.2.16।।





चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् ।

शिष्यं चैवाऽब्रवीद्वाक्यमिदं स मुनिपुङ्गव: ।।1.2.17।।





पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वित: ।

शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ।।1.2.18।।





शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरु: ।।1.2.19।।





सोऽभिषेकं तत: कृत्वा तीर्थे तस्मिन्यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनि: ।।1.2.20।।





भरद्वाजस्ततश्शिष्यो विनीतश्श्रुतवान्मुनेः ।

कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ।।1.2.21।।





स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्ट: कथाश्चान्याश्चकार ध्यानमास्थित: ।।1.2.22।।





आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभु: ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।।1.2.23।।




वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यत: ।

प्राञ्जलि: प्रयतो भूत्वा तस्थौ परमविस्मित: ।।1.2.24।।




पूजयामास तं देवं पाद्यार्घ्यासनवन्दनै: ।

प्रणम्य विधिवच्चैनं पृष्ट्वाऽनामयमव्ययम् ।।1.2.25।।




अथोपविश्य भगवानासने परमार्चिते ।

वाल्मीकये महर्षये सन्दिदेशासनं तत: ।।1.2.26।।




ब्रह्मणा समनुज्ञातस्सोऽप्युपाविशदासने ।

उपविष्टे तदा तस्मिन्सर्वलोकपितामहे।

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थित: ।।1.2.27।।




पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।।1.2.28।।





शोचन्नेव मुहु: क्रौञ्चीमुपश्लोकमिमं पुन: ।

जगावन्तर्गतमना भूत्वा शोकपरायण: ।।1.2.29।।





तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् ।

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।।1.2.30।।





मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।

रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम ।।1.2.31।।




धर्मात्मनो गुणवतो लोके रामस्य धीमत: ।

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।।1.2.32।।





रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमत: ।

रामस्य सहसौमित्रेः राक्षसानां च सर्वश: ।।1.2.33।।

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रह: ।

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।।1.2.34।।





न ते वागनृता काव्ये काचिदत्र भविष्यति ।

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।।1.2.35।।





यावत् स्थास्यन्ति गिरयस्सरितश्च महीतले ।

तावद्रामायणकथा लोकेषु प्रचरिष्यति ।।1.2.36।।






यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ।

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।।1.2.37।।





इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत ।

ततस्सशिष्यो भगवान्मुनिर्विस्मयमाययौ ।।1.2.38।।





तस्य शिष्यास्ततस्सर्वे जगुश्श्लोकमिमं पुन: ।

मुहुर्मुहु: प्रीयमाणा: प्राहुश्च भृशविस्मिता: ।।1.2.39।।





समाक्षरैश्चतुर्भिर्य: पादैर्गीतो महर्षिणा ।

सोऽनुव्याहरणाद्भूयश्श्लोकश्श्लोकत्वमागत: ।।1.2.40।।





तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मन: ।

कृत्स्नं रामायणं काव्यमीदृशै: करवाण्यहम् ।।1.2.41।।





उदारवृत्तार्थपदैर्मनोरमैः

तदास्य रामस्य चकारकीर्तिमान् ।

समाक्षरैश्श्लोकशतैर्यशस्विनो

यशस्करं काव्यमुदारधीर्मुनि: ।।1.2.42।।





तदुपगतसमाससन्धियोगं

सममधुरोपनतार्थवाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं

दशशिरसश्च वधं निशामयध्वम् ।।1.2.43।।





इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे द्वितीयस्सर्ग:।।




In this Page, you will find Sampoorna Sunderkan in Hindi.
Please let us know in the comments if you want Sunderkand in other Languages.

इस पेज में आपको संपूर्ण सुंदरकांड हिंदी में मिलेगा।
यदि आप अन्य भाषाओं में सुंदरकांड चाहते हैं तो कृपया हमें टिप्पणियों में बताएं।




Sundarkanda in Hindi  | सुंदरकांड   हिंदी में | Sundarkanda full in Hindi Lyrics | Sundarkanda in Pdf | Ramayan 101 Chaupai  | Sundarakanda Slokas In Hindi | Sundarakanda Slokas In Telugu |




Post a Comment

0 Comments